|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.71. अध्यायः 071
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति राजधर्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-71-0x(5504)(67610)
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते।
धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह॥ 12-71-1(67611)
भीष्म उवाच। 12-71-2x(5505)
समासेनैव ते राजन्धर्मान्वक्ष्यामि शाश्वतान्।
विस्तरेणैव धर्माणां न जात्वन्तमवाप्नुयात्॥ 12-71-2(67612)
धर्मनिष्ठाञ्श्रुतवतो देवव्रतसमाहितान्।
अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान्॥ 12-71-3(67613)
प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च।
अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः॥ 12-71-4(67614)
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च।
ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः॥ 12-71-5(67615)
आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत।
धर्मार्थौ प्रतिगृह्णीयात्कामक्रोधौ च वर्जयेत्॥ 12-71-6(67616)
कामक्रोधौ पुरस्कृत्य योऽर्थं राजाऽनुतिष्ठति।
न स धर्मं न चाप्यर्थं प्रतिगृह्णाति बालिशः॥ 12-71-7(67617)
मा स्म लुब्धांश्च मूर्खांश्च कामार्थे च प्रयूयुजः।
अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत्॥ 12-71-8(67618)
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः।
प्रजाः क्लिश्नात्ययोगेन कामक्रोधसमन्वितः॥ 12-71-9(67619)
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्।
शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम्॥ 12-71-10(67620)
दापयित्वा करं धर्म्यं राष्ट्रं नीत्या यथाविधि।
तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः॥ 12-71-11(67621)
गोपायितारं दातारं धर्मनित्यमतन्द्रितम्।
अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः॥ 12-71-12(67622)
तस्माद्धर्मेण लाभेन लिप्सेथास्त्वं धनागमम्।
धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत्॥ 12-71-13(67623)
अपशास्त्रधनो राजा संचयं नाधिगच्छति।
अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति॥ 12-71-14(67624)
अर्थमूलोऽपि हिंसां च कुरुते स्वयमात्मनः।
करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः॥ 12-71-15(67625)
ऊधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी न लभेत्पयः।
एवं राष्ट्रमयोगेन पीडितं न विवर्धते॥ 12-71-16(67626)
`यवसोदकमादाय सान्त्वेन विनयेन च।'
यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः।
एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम्॥ 12-71-17(67627)
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्।
जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर॥ 12-71-18(67628)
दोग्ध्री धान्यं हिरण्यं च मही राजा सुरक्षिता।
नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः॥ 12-71-19(67629)
मालाकारोपमो राजन्भव माऽऽङ्गारिकोपमः।
तथायुक्तश्चिरं राज्यं भोक्तुं शक्ष्यसि पालयन्॥ 12-71-20(67630)
परचक्राभियानेन यदि ते स्याद्धनक्षयः।
अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत्॥ 12-71-21(67631)
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः।
अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत॥ 12-71-22(67632)
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः।
सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम्॥ 12-71-23(67633)
एवं धर्म्येण वृत्तेन प्रजास्त्वं परिपालय।
स्वर्ग्यं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन॥ 12-71-24(67634)
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव।
युधिष्ठिर यथायुक्तो नाधिबन्धेन योक्ष्यसे॥ 12-71-25(67635)
एष एव परो धर्मो यद्राजा रक्षति प्रजाः।
भूतानां हि यदा धर्मो रक्षणं परमा दया॥ 12-71-26(67636)
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः।
यो राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्॥ 12-71-27(67637)
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः।
राजा वर्षसहस्रेण तस्यान्तमधिगच्छति॥ 12-71-28(67638)
यदह्ना कुरुते धर्मं प्रजा धर्मेण पालयन्।
दशवर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि॥ 12-71-29(67639)
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः।
क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन्॥ 12-71-30(67640)
एवं धर्मं प्रयत्नेन कौन्तेय परिपालय।
ततः पुण्यफलं लब्ध्वा नानुबन्धेन योक्ष्यसे॥ 12-71-31(67641)
स्वर्गलोके सुमहतीं श्रियं प्राप्स्यसि पाण्डव।
असंभवश्च धर्माणामीदृशानामराजसु॥ 12-71-32(67642)
तस्माद्राजैव नान्योऽस्ति यो धर्मफलमाप्नुयात्।
स राज्यं धृतिमान्प्राप्य धर्मेण परिपालय।
इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान्॥ ॥ 12-71-33(67643)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकसप्ततितमोऽध्यायः॥ 71॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-71-1 बह्वीनां प्रजानां परिपालन कथं स्यादिति चिन्ता आधिः स एव बन्धस्तेन न युज्यते॥ 12-71-9 अयोगेन योग इष्टप्राप्ति स्तदभावेन॥ 12-71-10 बली राजदेयं तदेव सस्यादेः षष्ठंशस्तेन बलिषष्ठेन। वेतनेन पथिरक्षितैर्वणिग्भिर्यद्दत्तं तद्राज्ञो वेतनं सेवाधनम्॥ 12-71-11 धान्यादेः षष्ठांशे हृते शेषेण प्रजानां यदि वार्षिको ग्रासो न भवेत्तदा राजैव तासां योगक्षेमं कल्पयेदित्याह दापयित्वेति॥ 12-71-19 दोग्ध्री पूरयित्री॥ 12-71-20 आङ्गारिक इङ्गालकर्ता॥ 12-71-25 यथायुक्त उक्तेन प्रकारेणाऽवहितः॥ 12-71-27 यो दयां कुरुते तं धर्मं मन्यन्ते इति योजना॥ 12-71-28 अन्तं यातनाभोगनिष्कृतिम्॥ 12-71-30 स्विष्टिः स्वधीतिः सुतपा इति क्रमेण गृहस्थब्रह्मचारिवानप्रस्थधर्मान्सम्यगनुतिष्ठन्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|